सोमवार, ३० जून, २००८

सुभाषित संग्रह - भाग ३

१०१)आदित्यस्य गतागतैर अहरहः संक्षीयते जीवितं
व्यापरैर बहुकार्यभारगुरुभिः कालो न विज्नायते
द्ऱ्ष्ट्वा जन्मजराविपत्तिमरणं त्रासस' च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिराम उन्मत्तभूतां जगत
१०२) यदि वा याति गोविन्दः मथुरातः पुनः सखि
राधायाः नयन द्वन्द्वे राधा नाम विपर्ययः
१०३) रत्नैर्महार्हैस्तुतुशुर्न देवा न भेजिरे भीमविषेण भीतिं
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः
१०४) तिलवत् स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यं
तिलगुडलद्दुकवत् सम्बन्धे अस्तु सुवृत्तत्त्वं
अस्तु विचारे शुभसंक्रमणं मंगलाय यशसे
कल्याणी संक्रान्तिरस्तु वः सदाहमाशंसे
१०५) द्राक्षा म्लान मुखी जाता शर्करा चाश्मताम गता
सुभाशित रसम द्रुश्ट्वा सुधा भीता दिवम गता
१०६) सर्वत्र देशे गुणवान् शोभते प्रथितः नरः
मणिः शीर्शे गले बाहौ यत्र कुत्र अपि शोभते
१०७) येन केन प्रकारेण यस्य कस्यापि देहिनः
सन्तोशं जनयेत्प्राज्ञः तदेवेश्वरपूजनं
१०८) गुणवत जन सम्सर्ग अत य अस्ति नीच अपि गोउरवम
पुश्प माला प्रसन्ग एन सूत्रम शिर असि धार्यते
१०९) गुणवत जन सम्सर्ग अत य अस्ति नीच अपि गोउरवम
पुश्प माला प्रसन्ग एन सूत्रम शिर असि धार्यते
११०) यः पठति लिखति पश्यति परिपृच्छती पण्डितान् उपाश्रयति
तस्य दिवाकरकिरणैः नलिनी दलं इव विस्तारिता बुद्धिः
१११) बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां
तेजसा सह जातानां वयः कुत्रोपयुज्यते
११२) यस्य अस्ति वित्तं स वरः कुलिनः
स पण्दितः स श्रुतवान् गुणज्ञः
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनं आश्रयन्ते
११३) पार्वती फणि बालेन्दु भस्म मन्दाकिनी युता
अपवर्ग प्रदा मूर्तिः कथं स्यात् तव शंकर
११४) सुमित्रा नन्दन आसक्तं इमं राजानं ईक्ष्य वा
अथ वा मां कृशतनुं जलधे रोदिषि स्वयं
११५) जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः
सफलं जीवितं तस्य को न स्वार्थाय जीवति
११६) चातक धूम समूहं दृष्ट्वा मा धाव वारि धर बुद्ध्या
इह हि भविष्यति भवतः नयन युगादेव वारिणां पूरः
११७) जाता शिखण्डिनी प्राक् यथा शिखण्डि तथावगच्छामि
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति !
११८) दातव्यं भोक्तव्यं धनविषये संचयो न कर्तव्यः
पश्येह मधुकरीणां संचितार्थं हरन्त्यन्ये
११९) त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च पुत्राश्च सुहृज्जनाश्च
तं अर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुषस्य बन्धुः
१२०) तृणादपि लघुस्तूलस्तूलादपि च याचकः
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति
१२१) अयं निजः परो वा इति गणना लघु चेतसां
उदार चरितानां तु वसुधा एव कुटुम्बकं
१२२) अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते
१२३) छायां अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयं आतपे
फलानि अपि पर अर्थाय वृक्षाः सत्पुरुषा इव
१२४) लालयेत् पंच वर्षाणि दश वर्षाणि ताडयेत्
प्राप्ते तु षोडशे वर्शे पुत्रे मित्रवद् आचरेत्
१२५) वैध्यराज नमस्तुभ्यम यमराज सहोधर
यमो हरति प्राणान वैध्यह प्राणन धनानि च
१२६) चिताम प्रज्वलिताम द्रुस्त्वा वैध्यह विस्मयमागतह
नाहम गतह न मय भ्राता कस्येदम हस्तलागवम
१२७) यथैकेन न हस्तेन तालिका सम्प्रपद्यते
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलं
१२८) अष्टादश पुराणानां सारं व्यासेन कीर्तितं
परोपकारः पुण्याय पापाय पर पीडनं
१२९) अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन्
१३०) अकृत्वा पर सन्तापं अगत्वा खल मन्दिरं
साधोः मार्गं अनुसृत्य यत् स्वल्पं अपि तद् बहु
१३१) आपदि मित्र परीक्षा शूर परीक्षा रण अंगणे भवति
विनये वंश परीक्षा शील परीक्षा धन क्षये भवति
१३२) विद्वत्त्वं च नृपत्वं च न एव तुल्ये कदाचन
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते
१३३) गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः
यतन्ते सस्यलाभाय तैः साकं हि वसामि अहं
१३४) मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः

१३५) अष्टौ गुणा पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
१३६) कः न याति वशं लोके मुखं पीण्डेन पूरितः
मृदंगः मुख लेपेन करोति मधुरं ध्वनिं
१३७) ऐक्यं बलं समाजस्या तदभावे स दुर्बलः
तस्मात् ऐक्यं प्रशंसन्ति दृढं राश्त्र हितैषिणः
१३८) गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां
१३९) गर्वाय परपीडायै दुर्जनस्य धनं बलं
सुजनस्य तु दानाय रक्षणाय च ते सदा
१४०) अम्बा यस्य उमादेवी जनकः यस्य शंकरः
विद्यां ददाति सर्वेभ्यः स नः पातु गजाननः
१४१) गौरवं प्राप्यते दानात् न तु वित्तस्य संचयात्
स्थितिः उच्चैः पयोदानां पयोधीनां अधः स्थितिः
१४२) उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः
षड् एते यत्र वर्तन्ते देवः तत्र सहायकृत्
१४३) उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये
पयः पानं भुजंगानां केवलं विषवर्धनं
१४४) आत्मनः मुख दोषेण बध्यन्ते शुक सारिकाः
बकाः तत्र न बध्यन्ते मौनं सर्वार्थ साधनं

१४५) करोति स्वमुखेनैव बहुधान्यस्य खण्दनं
नमः पतनशीलाय मुसलाय खलाय च
१४६) खलः करोति दुर्वृत्तं नूनं फलति साधुषु
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः
१४७) कार्यार्थी भजते लोकः यावत् कार्यं न सिध्यति
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनं
१४८) मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत्
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः


कोणत्याही टिप्पण्‍या नाहीत: