सुभाषित संग्रह लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा
सुभाषित संग्रह लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा

सोमवार, ३० जून, २००८

सुभाषित संग्रह - भाग ३

१०१)आदित्यस्य गतागतैर अहरहः संक्षीयते जीवितं
व्यापरैर बहुकार्यभारगुरुभिः कालो न विज्नायते
द्ऱ्ष्ट्वा जन्मजराविपत्तिमरणं त्रासस' च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिराम उन्मत्तभूतां जगत
१०२) यदि वा याति गोविन्दः मथुरातः पुनः सखि
राधायाः नयन द्वन्द्वे राधा नाम विपर्ययः
१०३) रत्नैर्महार्हैस्तुतुशुर्न देवा न भेजिरे भीमविषेण भीतिं
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः
१०४) तिलवत् स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यं
तिलगुडलद्दुकवत् सम्बन्धे अस्तु सुवृत्तत्त्वं
अस्तु विचारे शुभसंक्रमणं मंगलाय यशसे
कल्याणी संक्रान्तिरस्तु वः सदाहमाशंसे
१०५) द्राक्षा म्लान मुखी जाता शर्करा चाश्मताम गता
सुभाशित रसम द्रुश्ट्वा सुधा भीता दिवम गता
१०६) सर्वत्र देशे गुणवान् शोभते प्रथितः नरः
मणिः शीर्शे गले बाहौ यत्र कुत्र अपि शोभते
१०७) येन केन प्रकारेण यस्य कस्यापि देहिनः
सन्तोशं जनयेत्प्राज्ञः तदेवेश्वरपूजनं
१०८) गुणवत जन सम्सर्ग अत य अस्ति नीच अपि गोउरवम
पुश्प माला प्रसन्ग एन सूत्रम शिर असि धार्यते
१०९) गुणवत जन सम्सर्ग अत य अस्ति नीच अपि गोउरवम
पुश्प माला प्रसन्ग एन सूत्रम शिर असि धार्यते
११०) यः पठति लिखति पश्यति परिपृच्छती पण्डितान् उपाश्रयति
तस्य दिवाकरकिरणैः नलिनी दलं इव विस्तारिता बुद्धिः
१११) बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां
तेजसा सह जातानां वयः कुत्रोपयुज्यते
११२) यस्य अस्ति वित्तं स वरः कुलिनः
स पण्दितः स श्रुतवान् गुणज्ञः
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनं आश्रयन्ते
११३) पार्वती फणि बालेन्दु भस्म मन्दाकिनी युता
अपवर्ग प्रदा मूर्तिः कथं स्यात् तव शंकर
११४) सुमित्रा नन्दन आसक्तं इमं राजानं ईक्ष्य वा
अथ वा मां कृशतनुं जलधे रोदिषि स्वयं
११५) जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः
सफलं जीवितं तस्य को न स्वार्थाय जीवति
११६) चातक धूम समूहं दृष्ट्वा मा धाव वारि धर बुद्ध्या
इह हि भविष्यति भवतः नयन युगादेव वारिणां पूरः
११७) जाता शिखण्डिनी प्राक् यथा शिखण्डि तथावगच्छामि
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति !
११८) दातव्यं भोक्तव्यं धनविषये संचयो न कर्तव्यः
पश्येह मधुकरीणां संचितार्थं हरन्त्यन्ये
११९) त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च पुत्राश्च सुहृज्जनाश्च
तं अर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुषस्य बन्धुः
१२०) तृणादपि लघुस्तूलस्तूलादपि च याचकः
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति
१२१) अयं निजः परो वा इति गणना लघु चेतसां
उदार चरितानां तु वसुधा एव कुटुम्बकं
१२२) अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते
१२३) छायां अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयं आतपे
फलानि अपि पर अर्थाय वृक्षाः सत्पुरुषा इव
१२४) लालयेत् पंच वर्षाणि दश वर्षाणि ताडयेत्
प्राप्ते तु षोडशे वर्शे पुत्रे मित्रवद् आचरेत्
१२५) वैध्यराज नमस्तुभ्यम यमराज सहोधर
यमो हरति प्राणान वैध्यह प्राणन धनानि च
१२६) चिताम प्रज्वलिताम द्रुस्त्वा वैध्यह विस्मयमागतह
नाहम गतह न मय भ्राता कस्येदम हस्तलागवम
१२७) यथैकेन न हस्तेन तालिका सम्प्रपद्यते
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलं
१२८) अष्टादश पुराणानां सारं व्यासेन कीर्तितं
परोपकारः पुण्याय पापाय पर पीडनं
१२९) अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन्
१३०) अकृत्वा पर सन्तापं अगत्वा खल मन्दिरं
साधोः मार्गं अनुसृत्य यत् स्वल्पं अपि तद् बहु
१३१) आपदि मित्र परीक्षा शूर परीक्षा रण अंगणे भवति
विनये वंश परीक्षा शील परीक्षा धन क्षये भवति
१३२) विद्वत्त्वं च नृपत्वं च न एव तुल्ये कदाचन
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते
१३३) गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः
यतन्ते सस्यलाभाय तैः साकं हि वसामि अहं
१३४) मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः

१३५) अष्टौ गुणा पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
१३६) कः न याति वशं लोके मुखं पीण्डेन पूरितः
मृदंगः मुख लेपेन करोति मधुरं ध्वनिं
१३७) ऐक्यं बलं समाजस्या तदभावे स दुर्बलः
तस्मात् ऐक्यं प्रशंसन्ति दृढं राश्त्र हितैषिणः
१३८) गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां
१३९) गर्वाय परपीडायै दुर्जनस्य धनं बलं
सुजनस्य तु दानाय रक्षणाय च ते सदा
१४०) अम्बा यस्य उमादेवी जनकः यस्य शंकरः
विद्यां ददाति सर्वेभ्यः स नः पातु गजाननः
१४१) गौरवं प्राप्यते दानात् न तु वित्तस्य संचयात्
स्थितिः उच्चैः पयोदानां पयोधीनां अधः स्थितिः
१४२) उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः
षड् एते यत्र वर्तन्ते देवः तत्र सहायकृत्
१४३) उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये
पयः पानं भुजंगानां केवलं विषवर्धनं
१४४) आत्मनः मुख दोषेण बध्यन्ते शुक सारिकाः
बकाः तत्र न बध्यन्ते मौनं सर्वार्थ साधनं

१४५) करोति स्वमुखेनैव बहुधान्यस्य खण्दनं
नमः पतनशीलाय मुसलाय खलाय च
१४६) खलः करोति दुर्वृत्तं नूनं फलति साधुषु
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः
१४७) कार्यार्थी भजते लोकः यावत् कार्यं न सिध्यति
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनं
१४८) मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत्
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः


शनिवार, २८ जून, २००८

सुभाषित संग्रह - भाग २

51) ईक्षणं द्विगुणं प्रोक्तां भाषणस्येति वेधसा
अक्षि द्वे मनुष्याणां जिंव्हा त्वैकेव निर्मिता
52) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः
53) उत्तिष्ठ उत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः
प्रभाते रोदिती कुक्कु च वै तु हि च वै तु हि
54) उत्तमो नातिवक्ता स्यात् अधमो बहुभाषते
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते
55) चिन्तायास्तु चितायास्तु बिन्दु मात्रम विशेशतः
चिता दहति निर्जेएवम, चिन्ता दहति जेएवितम
56) चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता
सजीवं दहते चिन्ता निर्जीवं दहते चिता
57) उपकारो हि नीचानां अपकरो हि जायते
पयःपानं भुजंगाणां केवलं विषवर्धनं
58) उत्तमाः आत्मना ख्याताः पितुः ख्याताः च मध्यमाः
अधमाः मातुलात् ख्याताः शवशुरात् च अधमाधमाः
59) उद्यमस्साहसं धैर्यं बुद्धिश्यक्तिः पराक्रमः
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्
60) आदित्यचन्द्रावनलानिलौ चद्यौर्भूमिरापो हृदयं यमश्च
अहश्च रात्रिश्च उभे चधर्मश्च जानाति नरस्य वृत्तम्
61) न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्
कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम्
62) अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम्
दम्पत्योः कलहश्चैव परिणामे न किञ्चन
63) क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्
क्षण त्यागे कुतो विद्या कणत्यागे कुतो धनम्
64) अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
65) परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्
66) अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषदम्
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः
67) एकचक्रो रथो यन्ता विकलो विषमे हयाः
आक्रामत्येव तेजस्वी तथ्याप्यर्को नभस्तलं
68) मधुसिक्तो निम्बखन्डः दुग्धपुष्टो भुजन्गमः
गन्गास्नातोपि दुर्जनः स्वभावं नैव मुन्चति
69) एकेनापि सुवृक्षेण पुष्पितेना सुगन्धिना
वासितं तद् वनं सर्वं सुप्त्रेण कुलं यथा
70) ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत्
71) उदये सविता रक्तो रक्तश्चास्तमने तथा
सम्पत्तौ च विपत्तौ च साधुनामेकरूपता
72) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोशः ?
73) उपसर्गेण धात्वर्थो बलादन्यत्र नीयते
प्रहाराहारसंहारविहारपरिहारवत्
74) एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे
75) अनुदिनमनुतापेनास्म्यहं राम तप्तः परमकरुण मोहं छिन्धि मायासमेतं
इदमतिचपलं मे मानसं दुर्निवारं भव्ति च बहु खेदस्त्वां विना धाव शीघ्रं
76) न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः
तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः
77) सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः
तत्र सौरभ निर्माणे चतुरः चतुराननः
78) स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः
विषेशतः सर्वविदां समाजे विन्हूषणं मौनमपण्डितानां
79) गुरुशुश्रूशया विद्या पुष्कलेन धनेन वा
अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते
80) चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः
न समीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत्
81) कल्पद्रुमः कल्पितमेव सूत सा कामधुक कामितमेव दोग्धि
चिन्तामणिश्चिन्तितमेव दत्ते सतां तु सन्गः सकलम प्रसूते
82) सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः
83) सम्पूर्णकुम्भो न करोति शब्दंअर्धो घटो घोषमुपैति नूनं
विद्वान् कुलीनो न करोति गर्वंमूधास्तु जल्पन्ति गुणैर्विहीनाः
84) नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः
अन्ये बदरिकाकारा बहिरेव मनोहराः
85) न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः
तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः
86) परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु
दुर्लभानि परान्नानि प्रानाः जन्मनि जन्मनि ! !
87) न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः
भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति
88) केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाःन स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यतेक्षीयन्ते खलू भूषणानि सततं वाग्भूषणं भूषणं
89) अन्द इन चोन्त्रस्त तो थे प्रेविओउस सुभाशित हेरे इस ओने :किं वाससेत्यत्र विचारणीयं वासः प्रधानं खलु योग्यतायै
पीताम्बरं वीक्ष्य ददौ स्वकनां दिगम्बरं वीक्ष्य विषं समुद्रः
90) गुणैरुत्तुंगतां याति नोत्तुंगेनासनेन वै
प्रासादशिखरस्थोऽपि काको न गरुडायते
91) अशनं मे वसनं मे जाया मे बन्धुवर्गो मे
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजं
92) नाभिषेको न सम्स्कारह सिम्हस्य क्रियते
वनेविक्रमार्जितसत्वस्य स्वयमेव म्र्गेन्द्रता.
93) अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलं
94) गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः
95) चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति पापं कृत्वा दुर्गतिं यान्ति मूधास्तस्मान्मद्यं नैव पेयं न पेयं
96) प्रत्यक्ष कविकाव्यं च रूपं च कुलयोषितः
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते
97) किन्तु मद्यं स्वभावेन यथौषधं तथा स्मृतं
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतं
98) वितर वारि द वारि दव आतुरेचिर पिपासित चातक पोतके
प्रचलिते मरुति क्षणं अन्यथाक्व च भवान् क्व पयः क्व च चातकः
99) वनानि दहतः वह्नेः सखा भवति मारुतः
स एव दीप नाषाय कृशे कस्य अस्ति सौहृदं
100) यत्रआनेकः क्वचिदपि गृहे तत्र

तिष्ठत्यथैकोयत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि

चान्तेइत्थम नैयौ रजनिदिवसौ लोलयन

द्वाविवाक्षौकालः कल्यो भुवनफलके क्रीडति प्राणिसारैः

शुक्रवार, २७ जून, २००८

सुभाषित संग्रह - भाग १

1 या कुन्देन्दुतुशारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना

या ब्रह्माच्युतशन्करप्रभृतिभिः देवैः सदा वन्दितासा मां पातु सरस्वती भगवती निःषेशजाड्यापहा

2)अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति

ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्

3)पिनाक फणि बालेन्दु भस्म मन्दाकिनी युता

प वर्ग रचिता मूर्तिः अपवर्ग प्रडास्तु नः

4)पानियम पातुमिच्छामि त्वत्तः कमललोचने

यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहं

5)सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायतेमुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते

स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायतेप्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते

6)न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यम न च भारकारी

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानं

7)परस्परविरोधे च वयं पन्च च ते शतं

अन्यैः साकं विरोधे तु वयं पन्चाधिकं शतं

8)अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत्

गृहीत इव केशेषु मृत्युना धर्ममाचरेत्

9)कमले कमलोत्पत्तिः श्रूयते न तु दृश्यते

बाले तव मुखाम्भोजे कथमिन्दीवरद्वयं

10)कमले कमला शेते ःअरषेते ःइमालये

क्षिराब्धौ च ःअरिषेते मन्ये मत्कुण शन्कय

11)आकाशात् पतितं तोयं यथा गच्छति सागरं

सर्वदेवनमस्कारः केशवं प्रतिगच्छति

12)चिन्तनीया हि विपदामादावेव प्रतिक्रिया

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे

13)यत्कोकिलः किल मधौ मधुरम विरोति

तच्चारु चाम्र कलिका निक्रैक हेतुः

14)क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति

15)क्षमा बलमशक्तानाम शक्तानाम भूशणम क्षमा

क्षमा वशिक्रुते लोके क्षमया: किम न सिध्यति

16)कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती

करमूले तु गोविन्दः प्रभाते करदर्शनम्

17)काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः

18)सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं

अन्यदेहविलसत्परितापात् सज्जनो द्रवति, नो नवनीतं

19)काचं मणिं काञ्चनमेकसूत्रे मुग्धा निब्ध्नन्ति किमत्र चित्रं

विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह

20)शुनेव यूना प्रसभं मघोना प्रधर्शिता गौत्मधर्मपत्नी

विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह

21)निःस्वो वष्टि शतं शती दशशतं लक्षं सह्स्राधिपःलक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति

चक्रेशः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छतिब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः

22)निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्टं

अद्यैव वा मरणमस्तु युगान्तरे वान्याय्यात्पथः प्रविचलन्ति पदं न धीराः

23)निन्दोत वानोत सुनीतिमन्त चळो असो वा कमला गृहात

हो मृत्यु आजिच घडो युगान्ती सन्मार्ग टकोनि भले न जाती

24)स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ

दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे

25)स्वयं महेशः शव्शुरो नगेशः सखा धनेशश्च सुतो गणेशः

तथापि भिक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा

26)गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम

दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः

27)रे रे चातक ! सावधानमनसा मित्र क्षणं श्रूयतांअम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैकादृशाः

केचित् वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथायं यं पश्यसि तस्य तस्य पुरतो मा ब्ऱूहि दीनं वचः

28)रात्रिर्गमिष्यति भविष्यति सुप्रभातंभास्वान् उदेश्यति हसिष्यति पङ्कजश्रीः

इत्थं विचिन्तयति कोषगते द्विरेफ़ेहा हन्त हन्त नलिनिं गज उज्जहार

29)मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः

यत्क्रौंचमिथुनादेकं अवधीः काममोहितं

30)न हि कश्चित् विजानाति किं कस्य श्वो भविष्यति

अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्

31)प्रारभ्यते न खलु विघ्नभयेन नीचैःप्रारभ्य विघ्नविहता विरमन्ति मध्याः

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाःप्रारब्धमुत्तमजना न परित्यजन्ति

32)सिंहः शिशुरपि निपततिमद मलिन कपोल भित्तिषु गजेषु

प्रकृतिरियं सत्त्ववतांतेजसां हि न वयः समीक्ष्यते

33)यथ देशस्तथ भश यथ रज तथ प्रजः

यथ भुमिस्तथ तोयम यथ बेएजस्तथन्कुरः

34)यथा काष्ठं च काष्ठं च समेयातां महोदधौ

समेत्य च व्यपेयातां तद्वत् भूतसमागमः

35)कस्यचित् किमपि नो हरणीयंमर्मवाक्यमपि नोच्चरणीयं

श्रीपतेः पदयुगं स्मरणीयंलीलया भवजलं तरणीयं

36)साहित्य संगीत कला विहीनः साक्षात् पशुः पुछ विषाण हीनः

तृणं न खादन्नपि जीवमानः तद् भागधेयं परमं पषूणां

37)येषां न विद्या न तपो न दानंज्ञानं न शीलं न गुणो न धर्मः

ते मर्त्यलोके भुविभारभूताःमनुष्यरूपेण मॄगाश्चरन्ति

38)अधिगत्य गुरोः ज्ञानं छात्रेभ्यो वितरन्ति ये

विद्या वात्सल्य निधयः शिक्षका मम दैवतं

39)अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणं

चातुर्यं भूषणं नार्या उद्योगो नरभूषणं

40)अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीं

प्रयच्छ विमलां बुद्धीं प्रसन्ना भव सर्वदा

41)अपारे काव्यसंसारे कविरेकः प्रजापतिः

यथास्मै रोचते विश्वं तथा वै परिवर्तते

42)असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रंसुरतरुवरशाखा लेखनी पत्रमुर्वी

लिखति यदि गृहीत्वा शारदा सर्वकालंतदपि तव गुणानां ईश पारं न याति

43)क्षते प्रहाराः निपतन्ति अभीक्ष्णंधनक्षये वर्धति जाठराग्निः

आपत्सु वैराणि समुद्भदंतिचिद्रेषु अनर्थाः बहुलीभवंति

44)केशवम पतितम दृष्ट्वा पाण्डवाः हर्षनिर्भरआः

रुदन्ति कौरवाः सर्वे हा हा केशव केशव

45)के शवं पतितं दृष्ट्वा पाण्डवाः हर्षनिर्भराःरुदन्ति कौरवाः सर्वे हा हा के शव के शव !

46)वैद्यराज नमस्तुभ्यं यमराजसहोदर

यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च

47)अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च

अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः

48)चिन्तनीया हि विपदां अदावेव प्रतिक्रिया

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे

49)आयुशः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते

नीयते स वृथा येन प्रमादः सुमहानहो

50)आत्मनः परितोषाय कवेः काव्यं तथापि तत्

स्वामिनो देहलीदीपसमं अन्योपकारकं